कालिकापुराणम्: Kalikauranam
अद्याहं सहर्षः सुहृदयान्विबुधवरानभ्यर्थये। पुरा किल भगवता क्रमेण जनताया बुद्धिमांद्यमाकलय्य व्यासरूपेण वेदशाखाप्रणयनमकारि। ततश्व तेनैव 'स्त्रीशूद्रद्विज बंधूना त्रयी न श्रुतिगोचरा इति विचार्य प्रतिदेवतामहत्त्वसूचकान्यष्टादशमहापुराणान्युपपुराणानि च सेतिहासानि प्रणीतानि । तानि च सुप्रसिद्धानि संत्येव । यच्छ्रवणपठनतस्तदनुसारेण क्रियामार्गोपासनादिसमनुचरतां स्त्रीशूद्रवेदग्रहणासमर्थद्विजादीनां चित्तशुद्धिपुरुःसरं मोक्षमार्गावलंबनं भविष्यत्यवश्यमिति किं विशेषतः कथनेन 'न हि कस्तूरिका गंघः शपथेन विभाव्यते इति। अतस्तस्मै वेदव्यासमहर्षये सहसंशो धन्यवादाः ।
अथ प्रस्तुतविषये किंचिल्लिख्यते। परमकारुणिकेन तेनैव वेदव्यासेन हिमशैलगतमार्कडेयऋषिसंवादेन श्रीकालिकापुराणं प्रतिपादितम् । अस्मिश्च ब्रह्मविष्णुमहेशादि देवताविविधसम्मक्तिसूसेव्या शक्तिः सर्वजनबुद्धिगततमोनिरसनपूर्वकमोक्षप्रापिका सर्वकर्तृत्वादिसामर्थ्यवती च वर्णिता। तथैव शक्त्या शिवं मोहयितुं दक्षात्मजात्वमासाद्य योगमार्गनिरतस्यापि तस्य सृष्टिसंहारकार्ये नियोजनं कृतम्। ततश्च केनचित्कारणेन दक्षाध्वरे देह नैजं परित्यज्य हिमाचलान्मेनायां द्वितीयं देहमासाद्य हरस्यार्धांगमासादितम्। इत्यादिबहुविधसरसकथानकानि भगवत्या उपासनाविधानानि च विशेषतो वर्णितानि। तदेतच्छ्रीकालिकापुराणं सर्वेषां परं शाक्तमतावलंबिनां विशेषत उपकारकं मत्वा मया महता श्रमेण भूयसा द्रव्यव्ययेन च विद्वद्वारा संशोध्योत्तमसीसकाक्षरैः सुपत्रेषु निज 'श्रीवेंकटेश्वर स्टीमयंत्रालये मुद्रयित्वा प्रकाशितम्। सर्वसामान्यत्तो मूल्यमप्यस्याल्यमेव स्थापितम्। तदेतत्कालिकापुराणपुस्तकग्रहणेन पठनश्रवणादिस्वोपयोगं विधाय मां कृतार्थयंतु भवंत इति शम्।

Description