✨ New Arrivals Just Dropped!Explore
HomeStore

श्रीमदभार्गवोपपुराणम्: अध्ययनं सम्पादनञ्च- Shrimad Bhargavopa Puranam : Study and Editing

Product image 1
1 / 7
+2

श्रीमदभार्गवोपपुराणम्: अध्ययनं सम्पादनञ्च- Shrimad Bhargavopa Puranam : Study and Editing

परम्परानुसारम् 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेद्' इति न्यायान् महर्षिणा वेदव्यासेनाऽष्टादशपुराणानि प्रणीय वेदार्थस्यो पबृंहणमकारि। अष्टादशमहापुराणानां रचनानन्तरमेकदेवताविषयकाणि सम्प्रदायविशेषविषयकाणि वा यानि पुराणानि मुनिभिर्व्यासेन वा लिखितानि तान्येवोपपुराणौपपुराणत्वेन सुधीभिरङ्गीकृतानि । प्रारम्भे त्वुपपुराणानां सङ्ख्याऽप्यष्टादशैवाऽऽसीत्, किन्तु शनैः शनैरन्यान्यप्युपपुराणानि रचितानि, तस्मादेतेषां सङ्ख्या बहुत्वङ्गता। विभिन्नमहापुराणेषूपपुराणेषु चोपपुराणानां सूची या समुपलभ्यते, तस्यां त्वष्टादशसङ्ख्यैव निगदिता वर्तते। एष्वष्टादशोपपुराणेष्वेव 'श्रीमद्भार्गवोपपुराणस्यापि नाम नयनपथगोचरतामुपयाति। उपपुराणस्याऽस्याऽप्रकाशित त्वात्सम्पादनमध्ययनं च बहुसमयादेवाऽपेक्षितमवर्तत। उपपुराणमिदमद्यावधि हस्तलिखितग्रन्थागारेषु विराजते स्म। महत्प्रयासेनाऽस्य मातृकाः सङ्गृह्य शोधार्थिना सम्पादनकार्य साध्ययनमत्र प्रत्यपादि ।
श्रीमद्भार्गवोपपुराणं वैष्णवसम्प्रदायसर्वस्वभूतानामालवारभक्तानां भूतसरोमहदाहह्वयादीनां वर्णनं विदधाति। उपपुराणेऽस्मिंश्चत्वारिंशदध्याया वर्तन्ते। प्रत्यध्यायसमाप्तिपुष्पिकायां लिखितमिदमुपलभ्यते- 'इति श्रीमद्भार्गवे उपपुराणे उत्तरखण्डे नरनारायणसंवादे महायोगिमाहात्म्ये (ऽमुको) ऽध्यायः' इति। पुराणेषु प्रथितः सूतोऽस्ति मुख्यो वक्ताऽस्योपपुराणस्य शौनकादय ऋषयः श्रोतारः प्रष्टारश्च । अस्योपपुराणस्य कथाः श्रीनरनारायणसंवादत्वेन परिचर्चिता वर्तन्ते। अस्मिन्नुपपुराणे मुख्यतया भूतसरोमहदाह्वययोगिनां जन्मचरित्रं तेषां क्षेत्रयात्रावर्णनम्, श्रीभक्तिसारशठकोपमधुरकविकुलशेखरविष्णुचित्तगोदाम्बाभक्तपादरेणु मुनिव। हनपरकालयोगिनां चरित्राणि, लक्ष्म्याश्चरित्रम्, न्यासयोगमाहात्म्यम्, श्रीनाथयामुनरामानुजयतीश्वराणामपि संक्षेपेण जन्मचरित्राणि च प्रतिपादितानि । इत्थं सहस्रद्वयाधिकेषु श्लोकेषु प्रणीतमिदमुपपुराणं वैष्णवयोगिनां वर्णनं प्रस्तौति ।
अस्योपपुराणस्याऽनेकाः पाण्डुलिपयो हस्तलिखितपुस्तकालयेषु संरक्षिताः सन्ति, तेषु ', , , ' इति चतस्रो मातृकाः क्रमशोऽखिलभारतीयसंस्कृतपरिषल्लक्ष्मणपुराद्, लखनऊ विश्वविद्यालयस्य टैगोरपुस्तकालयाद्, जवाहरलाल नेहरूपुस्तकालयबम्बईनगरात्, प्राच्यशोध संस्थानबड़ौदापत्तनाच्च समादाय प्रथमतयाऽस्योपपुराणस्य पाठालोचनपूर्वकं सम्पादनकार्य विहितम्। एतासां सर्वासां पाण्डुलिपीनां परिचयोऽध्ययनभागे समुपस्थापितः ।
अस्य ग्रन्थस्याऽध्ययनभागे श्रीमद्भार्गवोपपुराणस्य कालकर्तृत्वविषयादीनां निर्धारणं विस्तरेण प्रतिपादितम्। श्रीवैष्णव सम्प्रदायस्य योगिनां यतीश्वराणां च संक्षिप्तपरिचयस्याऽपेक्षितत्वादत्राऽऽलवाराणां श्रीनाथादिमुनीनां जन्मनक्षत्रकालादीनां वर्णनं कुर्वता शोधकर्त्रा तत्कर्तृत्वमप्युदलेखि ।

$1.60

Original: $5.32

-70%
श्रीमदभार्गवोपपुराणम्: अध्ययनं सम्पादनञ्च- Shrimad Bhargavopa Puranam : Study and Editing

$5.32

$1.60

Description